कण्वे᳚भिर्धृष्ण॒वा धृ॒षद्वाजं᳚ दर्षि सह॒स्रिण᳚म् ।
पि॒शङ्ग᳚रूपं मघवन्विचर्षणे म॒क्षू गोम᳚न्तमीमहे ॥
पि॒शङ्ग᳚रूपं मघवन्विचर्षणे म॒क्षू गोम᳚न्तमीमहे ॥
पदपाठः (Word-by-word)
कण्वे᳚भिः । धृ॒ष्णो॒ इति᳚ । आ । धृ॒षत् । वाज᳚म् । द॒र्षि॒ । स॒ह॒स्रिण᳚म् ।
पि॒शङ्ग᳚॑रूपम् । म॒घ॒॑व॒न् । वि॒॑च॒र्ष॒णे॒ । म॒क्षु । गो॑म᳚न्तम् । ई॒म॒हे॒ ॥
पि॒शङ्ग᳚॑रूपम् । म॒घ॒॑व॒न् । वि॒॑च॒र्ष॒णे॒ । म॒क्षु । गो॑म᳚न्तम् । ई॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे धृष्णो धर्षकेन्द्र कण्वेभिः कण्वानुद्दिश्य विभक्तिव्यत्ययः सहस्रिणं सहस्रसंख्याकं वाजमादर्षि देहि । हे मघवन् धनवन् विचर्षणे विद्रष्टरिन्द्र धृषत् धृष्टं पिशङ्गरूपं गोमन्तंच वाजं मक्षु शीघ्रमीमहे याचामहे त्वामितिशेषः ॥ ३ ॥