यो धृ᳚षि॒तो यो॑वृ᳚तो॒ यो अस्ति॒ श्मश्रु᳚षु श्रि॒तः ।
विभू᳚तद्युम्न॒श्च्यव᳚नः पुरुष्टु॒तः क्रत्वा॒ गौरि᳚व शाकि॒नः ॥
विभू᳚तद्युम्न॒श्च्यव᳚नः पुरुष्टु॒तः क्रत्वा॒ गौरि᳚व शाकि॒नः ॥
पदपाठः (Word-by-word)
यः । धृ॒षि॒तः । यः । अवृ᳚तः । यः । अस्ति᳚ । श्मश्रु᳚षु । श्रि॒तः ।
विभू᳚त॑द्युम्नः । च्यव᳚नः । पु॒रु॒॑स्तु॒तः । क्रत्वा᳚ । गौः॑इ᳚व । शा॒कि॒नः ॥
विभू᳚त॑द्युम्नः । च्यव᳚नः । पु॒रु॒॑स्तु॒तः । क्रत्वा᳚ । गौः॑इ᳚व । शा॒कि॒नः ॥
सायणभाष्यम् (Sayana Commentary)
योधृषितः शत्रूणांधर्षयिता यश्चावृतः शत्रुभिरावृतः यश्चापि श्मश्रुषु युद्धेषु । श्रवःश्रयंत्यस्मिन्निति व्युत्पत्तेः श्मश्रु युद्धमितिवृद्धावदन्ति । श्रितोस्ति भवति यश्चापि विभूतद्युम्नः प्र भूतधनः यश्च च्यवनः सोमानां च्यावयिता यश्चापि पुरुष्टुतो बहुस्तुतः सइन्द्रः क्रत्वा कर्मणः शाकिनः शक्तस्य यज- मानस्य गौरिव यथा गौः पयसोदोग्ध्री तथा कामानां दोग्धाभवति ॥ ६ ॥