श्रवणम्

8.41.6
यस्मि॒न्विश्वा᳚नि॒ काव्या᳚ च॒क्रे नाभि᳚रिव श्रि॒ता ।
त्रि॒तं जू॒ती स᳚पर्यत व्र॒जे गावो॒ न सं॒युजे᳚ यु॒जे अश्वा{4}᳚ अयुक्षत॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । विश्वा᳚नि । काव्या᳚ । च॒क्रे । नाभिः᳚॑इव । श्रि॒ता ।
त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः᳚ । न । स॒म्॑युजे᳚ । यु॒जे । अश्वा᳚न् । अ॒यु॒क्ष॒त॒ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्वरुणे विश्वानि सर्वाणि काव्या काव्यानि कविकर्माणि चक्रे नाभिरिव यथा रथस्य चक्रेनाभिस्तथा श्रिता श्रितानि तं त्रितं त्रिस्थानं वरुणं जूती जूत्या क्षिप्रं सपर्यत हे मदीयाजनाः परिचरत । किमर्थमित्यतआह व्रजे गोष्ठे गावोन यथा गाः संयुजे संयोगार्थं सहस्थापयितुं युजे युञ्जन्ति त- थास्माकमभियोगायाश्वानयुक्षत सपत्नायुञ्जन्ति अतस्तदुपद्रवपरिहाराय वरुणं परिचरेतेत्यर्थः ॥ ६ ॥