श्रवणम्

8.37.6
क्ष॒त्राय᳚ त्व॒मव᳚सि॒ न त्व᳚माविथ शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
▶ पदपाठः (Word-by-word)
क्ष॒त्राय᳚ । त्व॒म् । अव᳚सि । न । त्व॒म् । आ॒वि॒थ॒ । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीपते इन्द्र त्वं क्षत्राय जगतोबलाय भवसि अवस्याश्रितान्रक्षसि । त्वं नाविथ के नापि नरक्ष्यसे । सिद्धमन्यत् ॥ ६ ॥