ए॒क॒राळ॒स्य भुव᳚नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
पदपाठः (Word-by-word)
ए॒क॒॑राट् । अ॒स्य । भुव᳚नस्य । रा॒ज॒सि॒ । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शचीपते इन्द्र अस्य भुवनस्य एकराट् एकएव राजा सम् राजसि भ्राजसे । सिद्धमन्यत् ॥ ३ ॥