स॒स्थावा᳚ना यवयसि॒ त्वमेक॒ इच्छ᳚चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
पदपाठः (Word-by-word)
स॒॑स्थावा᳚ना । य॒व॒य॒सि॒ । त्वम् । एकः᳚ । इत् । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शचीपते इन्द्र त्वमेकइत् एकएव सस्थावाना समानं तिष्ठताविमौ लोकौ यवयसि पृथक्करोषि । सिद्धमन्यत् ॥ ४ ॥