श्रवणम्

8.37.1
प्रेदं ब्रह्म᳚ वृत्र॒तूर्ये᳚ष्वाविथ॒ प्र सु᳚न्व॒तः श᳚चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚ः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम᳚स्य वज्रिवः ॥
▶ पदपाठः (Word-by-word)
प्र । इ॒दम् । ब्रह्म᳚ । वृ॒त्र॒॑तूर्ये᳚षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒॑प॒ते॒ । इन्द्र᳚ । विश्वा᳚भिः । ऊ॒ति॑भिः᳚ ।
माध्य᳚न्दिनस्य । सव᳚नस्य । वृ॒त्र॒॑ह॒न् । अ॒ने॒द्य॒ । पिब᳚ । सोम᳚स्य । व॒ज्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीपते इन्द्र त्वं वृत्रतूर्येषु संग्रामेषु इदं ब्रह्म इमान् ब्राह्मणान् विश्वाभिः सर्वाभिःऊतिभीरक्षाभिः प्राविथ प्ररक्ष । सुन्वतः सोमाभिषवः कुर्वतो यजमानांश्च प्राविथ । अपिच हे अनेद्यानिन्द्य वज्रिवो वज्रिन् वृत्रहन्निन्द्र माध्यन्दिनस्य सवनस्य संबन्धिनं सोमस्य सोमं पिब ॥ १ ॥