श्रवणम्

8.47.3
व्य१॒᳚स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य᳚न्तन ।
विश्वा᳚नि विश्ववेदसो वरू॒थ्या᳚ मनामहे॑ने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । अ॒स्मे इति᳚ । अधि᳚ । शर्म᳚ । तत् । प॒क्षा । वयः᳚ । न । य॒न्त॒न॒ ।
विश्वा᳚नि । वि॒श्व॒॑वे॒द॒सः॒ । व॒रू॒थ्या᳚ । म॒ना॒म॒हे॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्या यूयं अस्मे अधि अस्मासु तत् युष्मास्वेवासाधारणं यच्छर्मास्ति तदित्यर्थः । तत् वयोन पक्षा पक्षिणः शिशुकानां पक्षोपरि यथा तथा वियन्तन विशेषेण प्रापयत हे विश्ववेदसः सर्वधना युष्मान्विश्वानि सर्वाणि वरूथ्या वरूथं गृहं तदुचितानि धनानि मनामहे याचामहे ॥ ३ ॥