श्रवणम्

8.47.12
नेह भ॒द्रं र᳚क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
गवे᳚ च भ॒द्रं धे॒नवे᳚ वी॒राय᳚ च श्रवस्य॒ते᳚॑ने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने᳚ । न । अ॒व॒॑यै । न । उ॒प॒॑यै । उ॒त ।
गवे᳚ । च॒ । भ॒द्रम् । धे॒नवे᳚ । वी॒राय᳚ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः इह भूमौ भद्रं कल्याणं सुखं रक्षस्विने रक्षोबलं बलवतेस्मदृवेष्ट्रे नभवत्वितिशेषः । अवयै अस्मान् हिंसितुमवगच्छते नभवतु भद्रं तथोपयै उपगच्छते नभवतु । तर्हि कस्य भवत्विति उच्यते गवेच भद्रं युष्मदीयं भवतु चशब्दो वक्ष्यमाणधेन्वाद्यपेक्षः । किञ्च धेनवे नवप्रसूति- कायै भद्रं भवतु । वीरायास्मत्पुत्रादिकाय भद्रं भवतु । कीदृशाय वीराय श्रवस्यतेन्नमिच्छते अथवा उत्तरार्धेपि नेत्यनुवर्तते अस्मद्विरोधिनो गवादिकाय भद्रं न भत्वितितस्यार्थः ॥ १२ ॥