श्रवणम्

8.47.15
नि॒ष्कं वा᳚ घा कृ॒णव᳚ते॒ स्रजं᳚ वा दुहितर्दिवः ।
त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व᳚मा॒प्त्ये परि᳚ दद्मस्यने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव᳚ते । स्रज᳚म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ते । दुः॒॑स्वप्न्य᳚म् । सर्व᳚म् । आ॒प्त्ये । परि᳚ । द॒द्म॒सि॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दिवोदुहितरुषो निष्कंवा घ आभरणविशेषं वा कृणवते कुर्वते स्वर्णकाराय यत् दुःष्वम्यं दृष्टं स्वर्णकारेणनिर्माणसमये दृष्टमित्यर्थः । घेतिपूरणः वाशब्दश्चार्थे वा अथवा स्रजं माल्यं कृणवते कुर्वाणेइत्यर्थः तस्मिन्नपि मालाकारे मालोआनिर्माणसमये यत् दुःष्वम्यं दृष्टं तदुभयविषयं स्वमं आप्त्ये अपां पुत्रे त्रिते वर्तमानं परिदद्मसि परिदद्मोवयं त्रिताः परित्यजामेत्यर्थः । अथवा त्रिते मयि यद्दुःष्वम्यं दृष्टं तत्स्वर्णकाराय मालाकारा- यवा परिदद्मसि अस्मत्तोपिनिष्कृष्य तयोरुपरि स्थापयामः ॥ १५ ॥