प॒रि॒ह्वृ॒तेद॒ना जनो᳚ यु॒ष्माद᳚त्तस्य वायति ।
देवा॒ अद᳚भ्रमाश वो॒ यमा᳚दित्या॒ अहे᳚तनाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
देवा॒ अद᳚भ्रमाश वो॒ यमा᳚दित्या॒ अहे᳚तनाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
प॒रि॒॑ह्वृ॒ता । इत् । अ॒ना । जनः᳚ । यु॒ष्मा॑द᳚त्तस्य । वा॒य॒ति॒ ।
देवाः᳚ । अद᳚भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे᳚तन । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
देवाः᳚ । अद᳚भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे᳚तन । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
परिह्वृतेत् परिपीडितेनैव तपोनियमादिना अना शकटेनयुक्तो जनो युष्मादत्तस्य युष्माभिर्दत्तंधनं कर्मणिषष्ठी वायति गच्छति । हे देवाः हे आदित्याः हे आशवः शीघ्रगमनाययं यं यजमानं अहेतन प्राप्नुथः सजनो दभ्रमनल्पं धनं वायति प्राप्नोतीति संबन्धः ॥ ६ ॥