वि॒दा दे᳚वा अ॒घाना॒मादि᳚त्यासो अ॒पाकृ᳚तिम् ।
प॒क्षा वयो॒ यथो॒परि॒ व्य१॒᳚स्मे शर्म᳚ यच्छताने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
प॒क्षा वयो॒ यथो॒परि॒ व्य१॒᳚स्मे शर्म᳚ यच्छताने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
वि॒द । दे॒वाः॒ । अ॒घाना᳚म् । आदि᳚त्यासः । अ॒प॒॑आकृ᳚तिम् ।
प॒क्षा । वयः᳚ । यथा᳚ । उ॒परि᳚ । वि । अ॒स्मे इति᳚ । शर्म᳚ । य॒च्छ॒त॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
प॒क्षा । वयः᳚ । यथा᳚ । उ॒परि᳚ । वि । अ॒स्मे इति᳚ । शर्म᳚ । य॒च्छ॒त॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवा आदित्यास आदित्याः यूयं अघानां दुःखानामपाकृतिमपाकरणं परिहारप्रकारं विद जानीथ । यस्मादेवं तस्माद्वयः पक्षिणः यथा पक्षा स्वप- क्षौ उपरि स्वशिशुकानामुपरि कुर्वन्ति सुखाय तद्वदस्मे अधि अस्मासु शर्म सुखं यच्छत कुरुत । अधीति सप्तम्यर्थानुवादी । अस्मे अस्माकमुपरीति- वा ॥ २ ॥