न तं ति॒ग्मं च॒न त्यजो॒ न द्रा᳚सद॒भि तं गु॒रु ।
यस्मा᳚ उ॒ शर्म᳚ स॒प्रथ॒ आदि᳚त्यासो॒ अरा᳚ध्वमने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
यस्मा᳚ उ॒ शर्म᳚ स॒प्रथ॒ आदि᳚त्यासो॒ अरा᳚ध्वमने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
न । तम् । ति॒ग्मम् । च॒न । त्यजः᳚ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु ।
यस्मै᳚ । ऊं॒ इति᳚ । शर्म᳚ । स॒॑प्रथः᳚ । आदि᳚त्यासः । अरा᳚ध्वम् । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
यस्मै᳚ । ऊं॒ इति᳚ । शर्म᳚ । स॒॑प्रथः᳚ । आदि᳚त्यासः । अरा᳚ध्वम् । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तं मनुष्यं तिग्मं चन तीक्ष्णमेव सन्तं त्यजः क्रोधनामैतत् अत्र क्रोधात्प्रयुज्यमानमायुधमुच्यते न द्रासत् द्रा कुत्सायां गतौ कुत्सितं नागच्छति नहिनस्तीत्यर्थः । तथा तं जनं गुरुप्रवृद्धं अपरिहारार्हं दुःखं न द्रासत् न गच्छति । हे आदित्यासः आदित्याः सप्रथः समानप्रथनाः सर्वतः पृथु- भूवावा यूयं यस्माउ यस्मै यजमानाय उशब्दः पूरणः शर्म सुखं अराध्वं अदत्त तं न द्रासदिति ॥ ७ ॥