श्रवणम्

8.47.11
आदि᳚त्या॒ अव॒ हि ख्यताधि॒ कूला᳚दिव॒ स्पशः᳚ ।
सु॒ती॒र्थमर्व᳚तो य॒थानु᳚ नो नेषथा सु॒गम᳚ने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
आदि᳚त्याः । अव᳚ । हि । ख्यत᳚ । अधि᳚ । कूला᳚त्॑इव । स्पशः᳚ ।
सु॒॑ती॒र्थम् । अर्व᳚तः । य॒था॒ । अनु᳚ । नः॒ । ने॒ष॒थ॒ । सु॒॑गम् । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्या यूयं अवहिख्यत अवहि पश्यताधस्तात्स्थितानस्मान् । तत्रदृष्टान्तः-कूलादिवाधि कूले स्पशः स्पष्टाः स्थिताइत्यर्थः यथा कूलस्थः पुरुषोधोगतमुदकं जिज्ञासुः तत्रस्थं मनुष्यं वा विलोकयितुमवाक्पश्यति तद्वत् । तथा कृत्वा सुतीर्थं शोभनावतरप्रदेशं अर्वतोश्वान्यथा प्रापय- न्त्यश्वरक्षकास्तद्वन्नोस्मान् सुगं सुपन्थानमनुनेषथानुनयथ ॥ ११ ॥