यथा᳚ क॒लां यथा᳚ श॒फं यथ᳚ ऋ॒णं सं॒नया᳚मसि ।
ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व᳚मा॒प्त्ये सं न᳚यामस्यने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व᳚मा॒प्त्ये सं न᳚यामस्यने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
यथा᳚ । क॒लाम् । यथा᳚ । श॒फम् । यथा᳚ । ऋ॒णम् । स॒म्॑नया᳚मसि ।
ए॒व । दुः॒॑स्वप्न्य᳚म् । सर्व᳚म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
ए॒व । दुः॒॑स्वप्न्य᳚म् । सर्व᳚म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
संज्ञापितं पशुं दानार्थं संस्कुर्वन्तो यथा येनप्रकारेण कलां शफमिति सन्दायान्यत्र सन्नयन्ति अथापरो यथा शब्दःपूरणः अथवा यथा कलां हृदया- द्यवयवमवदानार्हं सन्नयन्ति यथाच शफं शफोपलक्षितमवदानार्हं शफास्थ्यादिकं सन्नयामः अपसारयामः ॥ १७ ॥