तद᳚न्नाय॒ तद᳚पसे॒ तं भा॒गमु᳚पसे॒दुषे᳚ ।
त्रि॒ताय᳚ च द्वि॒ताय॒ चोषो᳚ दु॒ष्ष्वप्न्यं᳚ वहाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
त्रि॒ताय᳚ च द्वि॒ताय॒ चोषो᳚ दु॒ष्ष्वप्न्यं᳚ वहाने॒हसो᳚ व ऊ॒तयः᳚ सुऊ॒तयो᳚ व ऊ॒तयः᳚ ॥
पदपाठः (Word-by-word)
तत्॑अ᳚न्नाय । तत्॑अ᳚पसे । तम् । भा॒गम् । उ॒प॒॑से॒दुषे᳚ ।
त्रि॒ताय᳚ । च॒ । द्वि॒ताय᳚ । च॒ । उषः᳚ । दुः॒॑स्वप्न्य᳚म् । व॒ह॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
त्रि॒ताय᳚ । च॒ । द्वि॒ताय᳚ । च॒ । उषः᳚ । दुः॒॑स्वप्न्य᳚म् । व॒ह॒ । अ॒ने॒हसः᳚ । वः॒ । ऊ॒तयः᳚ । सु॒॑ऊ॒तयः᳚ । वः॒ । ऊ॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तदन्नाय यदेव जागरावस्थायां भोज्यत्वेन प्रसिद्धं मधुपायसादि स्वप्नेपि तदेवान्नं यस्य सः तादृशाय प्रत्यक्षभोजनवत् स्वप्नेपि भोत्र्क्रे इत्यर्थः । तथा तदपसे यदेवापः कर्मनिन्दितं जाग्रदवस्थायां क्रियते तदेव कर्म स्वप्ने यस्य सतत्कर्मा तादृशाय देवाय तं भागं दुःस्वप्नत्यांशमुपसेदुषे प्राप्नुवते त्रिताय द्वितायच हे उषोदेवि दुःष्वप्न्यं अन्नकर्मविषयं वह अन्यत्र प्रापय स्वप्नेदृष्टं मधुभोजनादिकं जाग्रदवस्थानरूपवत्सुखकरं भवत्वित्यर्थः ॥ १६ ॥