श्रवणम्

8.38.10
आहं सर᳚स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚ वृणे ।
याभ्यां᳚ गाय॒त्रमृ॒च्यते᳚ ॥
▶ पदपाठः (Word-by-word)
आ । अ॒हम् । सर᳚स्वती॑वतोः । इ॒न्द्रा॒ग्न्योः । अवः᳚ । वृ॒णे॒ ।
याभ्या᳚म् । गा॒य॒त्रम् । ऋ॒च्यते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याभ्यां ययोरिन्द्राग्न्योरर्थं गायत्रं साम ऋच्यते स्तूयते तयोः सरस्वतीवतोःस्तुतिमतोरिन्द्राग्न्योः संबंध्यवो रक्षणमहमावृणे ॥ १० ॥

अग्निमस्तोषीति दशर्चं नवमं सूक्तं काण्वस्य नाभाकस्यार्षं षडष्टका महापंक्तिश्छन्दः अग्निर्देवता । अनुक्रान्तञ्च-अग्निमस्तोषिनाभाकआग्नेयं महापांक्तंहीति । विनियोगोलैङ्गिकः ।