श्रवणम्

8.38.4
जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ सु॒तं सोमं᳚ सधस्तुती ।
इन्द्रा᳚ग्नी॒ आ ग᳚तं नरा ॥
▶ पदपाठः (Word-by-word)
जु॒षेथा᳚म् । य॒ज्ञम् । इ॒ष्टये᳚ । सु॒तम् । सोम᳚म् । स॒ध॒स्तु॒ती॒ इति᳚ सध॑स्तुती ।
इन्द्रा᳚ग्नी॒ इति᳚ । आ । ग॒त॒म् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सधस्तुती सहभूतस्तुती नरानेताराविंद्राग्नी यज्ञं जुषेथां सेवेथां इष्टये यागाय सतमभिषुतं सोमञ्च आगतमागच्छतम् ॥ ४ ॥