इ॒दं वां᳚ मदि॒रं मध्वधु᳚क्ष॒न्नद्रि᳚भि॒र्नरः᳚ ।
इन्द्रा᳚ग्नी॒ तस्य᳚ बोधतम् ॥
इन्द्रा᳚ग्नी॒ तस्य᳚ बोधतम् ॥
पदपाठः (Word-by-word)
इ॒दम् । वा॒म् । म॒दि॒रम् । मधु᳚ । अधु᳚क्षन् । अद्रि᳚॑भिः । नरः᳚ ।
इन्द्रा᳚ग्नी॒ इति᳚ । तस्य᳚ । बो॒ध॒त॒म् ॥
इन्द्रा᳚ग्नी॒ इति᳚ । तस्य᳚ । बो॒ध॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्राग्नी वां युवां उद्दिश्य नरो यज्ञस्य नेतारोद्रिभिर्ग्रावभिः इदं प्रसिद्धं मदिरं मदकरं मधु सोमात्मकममृतं अधुक्षन् अपूरयन् । सिद्धमन्यत् ॥ ३ ॥