श्रवणम्

8.39.6
अ॒ग्निर्जा॒ता दे॒वाना᳚म॒ग्निर्वे᳚द॒ मर्ता᳚नामपी॒च्य᳚म् ।
अ॒ग्निः स द्र᳚विणो॒दा अ॒ग्निर्द्वारा॒ व्यू᳚र्णुते॒ स्वा᳚हुतो॒ नवी᳚यसा॒ नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । जा॒ता । दे॒वाना᳚म् । अ॒ग्निः । वे॒द॒ । मर्ता᳚नाम् । अ॒पी॒च्य᳚म् ।
अ॒ग्निः । सः । द्र॒वि॒णः॒॑दाः । अ॒ग्निः । द्वारा᳚ । वि । ऊ॒र्णु॒ते॒ । सु॑आ᳚हुतः । नवी᳚यसा । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां जाता जातानि जन्मान्यग्निर्वेद वेत्ति मर्तानां मनुष्याणां चापीच्यं गुह्यमग्निर्वेद वेत्ति सोग्निर्द्रविणोदाः धनस्य दाता नबीयसा नवतरेण हवि- षा स्वाहुतः सम्यक् हुतोग्निः द्वारा धनस्य द्वाराणि व्यूर्णुतेच । सिद्धमन्यत् ॥ ६ ॥