श्रवणम्

8.92.32
त्वयेदि᳚न्द्र यु॒जा व॒यं प्रति᳚ ब्रुवीमहि॒ स्पृधः᳚ ।
त्वम॒स्माकं॒ तव᳚ स्मसि ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति᳚ । ब्रु॒वी॒म॒हि॒ । स्पृधः᳚ ।
त्वम् । अ॒स्माक᳚म् । तव᳚ । स्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वयेत् । इदवधारणे । त्वयैव युजा सहायेन स्पृधः स्पर्धमानान् शत्रून् वयं प्रतिब्रुवीमहि निराकुर्वीमहि । प्रतिवचनं निराकरणम् । उत्तरार्धेन इन्द्रसाहाय्यमेव प्रतिपादयति-हे इन्द्र त्वमस्माकं भवसि स्तुत्यस्तोतृयष्टृयष्टव्यतया त्वमस्माकं भवसि । वयं तवस्मसि भवामः । तथारण्यकं-त्वमिदं सर्वमसि तववयंस्मः त्वमस्माकमसीति । तस्मात्त्वया सहायेन शत्रून्हन्यामेति ॥ ३२ ॥