श्रवणम्

8.19.11
यस्या॒ग्निर्वपु᳚र्गृ॒हे स्तोमं॒ चनो॒ दधी᳚त वि॒श्ववा᳚र्यः ।
ह॒व्या वा॒ वेवि᳚ष॒द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अ॒ग्निः । वपुः᳚ । गृ॒हे । स्तोम᳚म् । चनः᳚ । दधी᳚त । वि॒श्व॑वा᳚र्यः ।
ह॒व्या । वा॒ । वेवि᳚षत् । विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य यजमानस्य गृहे विश्ववार्योविश्वैर्वरणीयः वपुः रूपनामैतत् रूपवान् दीप्तिमानग्निः स्तोमं स्तोत्रं चनोन्नंच हविर्लक्षणं दधीत धारयेत् । यस्यच हव्या वाशब्दः समृज्ञ्वये हव्यानि हवींषिच विषः व्याप्तान् देवान् वेविषत् प्रापयेत् विष्लुव्याप्तौ अस्माल्लेटि रूपमेतत् । सयजमानइति पूर्वत्रसंबंधः ॥ ११ ॥