यो अ॒ग्निं ह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वा सु॒दक्ष᳚मा॒विवा᳚सति ।
गि॒रा वा᳚जि॒रशो᳚चिषम् ॥
गि॒रा वा᳚जि॒रशो᳚चिषम् ॥
पदपाठः (Word-by-word)
यः । अ॒ग्निम् । ह॒व्यदा᳚ति॑भिः । नमः᳚॑भिः । वा॒ । सु॒॑दक्ष᳚म् । आ॒॑विवा᳚सति ।
गि॒रा । वा॒ । अ॒जि॒र॑शो᳚चिषम् ॥
गि॒रा । वा॒ । अ॒जि॒र॑शो᳚चिषम् ॥
सायणभाष्यम् (Sayana Commentary)
योयजमानः हव्यदातिभिः हविषां दानैर्नमस्कारैर्वा सुदक्षं शोभनबलमग्निं आविवासति परिचरति गिरावा स्तुत्या वा अजिरशोचिषं क्षिप्रगा- मितेजस्कं तमग्निं परिचरति सः समृद्धोभवतीतिशेषः ॥ १३ ॥