यः स॒मिधा॒ य आहु᳚ती॒ यो वेदे᳚न द॒दाश॒ मर्तो᳚ अ॒ग्नये᳚ ।
यो नम᳚सा स्वध्व॒रः ॥
यो नम᳚सा स्वध्व॒रः ॥
पदपाठः (Word-by-word)
यः । स॒म्॑इधा᳚ । यः । आ॑हु᳚ती । यः । वेदे᳚न । द॒दाश᳚ । मर्तः᳚ । अ॒ग्नये᳚ ।
यः । नम᳚सा । सु॒॑अ॒ध्व॒रः ॥
यः । नम᳚सा । सु॒॑अ॒ध्व॒रः ॥
सायणभाष्यम् (Sayana Commentary)
इयं पाकयज्ञप्रशंसापरेति भगवताश्वलायनेन व्याख्याता । योमर्तोमनुष्यः समिधा पालाशादिनेध्मेन अग्नये अग्न्यर्थं ददाश परिचरति यश्च आहुती आहुत्या आज्यादिसाध्यया परिचरति यश्च वेदेन वेदाध्ययनेन ब्रह्मयज्ञेन परिचरति यश्चस्वध्वरः शोभनेनाध्वरेण ज्योतिष्टोमादिना यु- क्तःसन् नमसा अन्नेन चरुपुरोडाशादिना अग्नये ददाशः अग्न्यर्थं परिचरति तस्येदर्वन्तइत्युत्तरत्रसंबन्धः ॥ ५ ॥