तव॒ क्रत्वा᳚ सनेयं॒ तव᳚ रा॒तिभि॒रग्ने॒ तव॒ प्रश᳚स्तिभिः ।
त्वामिदा᳚हु॒ः प्रम᳚तिं वसो॒ ममाग्ने॒ हर्ष᳚स्व॒ दात᳚वे ॥
त्वामिदा᳚हु॒ः प्रम᳚तिं वसो॒ ममाग्ने॒ हर्ष᳚स्व॒ दात᳚वे ॥
पदपाठः (Word-by-word)
तव᳚ । क्रत्वा᳚ । स॒ने॒य॒म् । तव᳚ । रा॒ति॑भिः᳚ । अग्ने᳚ । तव᳚ । प्रश᳚स्ति॑भिः ।
त्वाम् । इत् । आ॒हुः॒ । प्र॑म᳚तिम् । व॒सो॒ इति᳚ । मम᳚ । अ॒ग्ने॒ । हर्ष᳚स्व । दात᳚वे ॥
त्वाम् । इत् । आ॒हुः॒ । प्र॑म᳚तिम् । व॒सो॒ इति᳚ । मम᳚ । अ॒ग्ने॒ । हर्ष᳚स्व । दात᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तव क्रत्वा त्वदीयेन परिचरणरूपेण कर्मणा सनेयं त्वां संभजेयम् एतदेवविशदयति तव रातिभिस्त्वदीयैर्हविर्दानैश्च सनेयं तथा तव प्रश- स्तिभिः प्रशंसनैः स्तोत्रैश्च त्वां संभजेयम् अस्यैव संभजने किंकारणं तदाह । हे वसो वासकाग्ने मम स्तोतुः प्रमतिं प्रकृष्टबुद्धिं रक्षकं त्वामित् त्वामेव आहुः ब्रह्मवादिनः कथयन्ति अतः हे अग्ने दातवे दातुं हर्षस्व हृष्टोभव हर्षयुक्तः सन् बहुधनं प्रयच्छेत्यर्थः ॥ २९ ॥