श्रवणम्

8.19.9
सो अ॒द्धा दा॒श्व᳚ध्व॒रो॑ग्ने॒ मर्त᳚ः सुभग॒ स प्र॒शंस्य᳚ः ।
स धी॒भिर᳚स्तु॒ सनि᳚ता ॥
▶ पदपाठः (Word-by-word)
सः । अ॒द्धा । दा॒शु॑अ᳚ध्वरः । अग्ने᳚ । मर्तः᳚ । सु॒॑भ॒ग॒ । सः । प्र॒॑शंस्यः᳚ ।
सः । धी॒भिः । अ॒स्तु॒ । सनि᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने योमर्तोमनुष्यः दाश्वध्वरः दत्तयज्ञोभवति सः अद्धा सत्यनामैतत् तत्यफलोभवतु । हे सुभग शोभनधनाग्ने सएव प्रशंस्यः प्रशंसनीयः श्ला- घनीयश्च तथा सधीभिः कर्मभिः स्तोत्रैर्वा सनिता संभजनशीलोस्तु भवतु ॥ ९ ॥