श्रवणम्

8.19.6
तस्येदर्व᳚न्तो रंहयन्त आ॒शव॒स्तस्य᳚ द्यु॒म्नित᳚मं॒ यशः᳚ ।
न तमंहो᳚ दे॒वकृ᳚तं॒ कुत᳚श्च॒न न मर्त्य᳚कृतं नशत् ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । इत् । अर्व᳚न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः᳚ । तस्य᳚ । द्यु॒म्नि॑त᳚मम् । यशः᳚ ।
न । तम् । अंहः᳚ । दे॒व॑कृ᳚तम् । कुतः᳚ । च॒न । न । मर्त्य᳚॑कृतम् । न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पूर्वोक्तः तस्येत् तस्यैव आशवोव्यापनशीलाः अर्वन्तःअश्वाः रंहयंते वेगंकुर्वन्ति शत्रूनूप्रसहन्तइत्यर्थः । द्युम्नितमं दीप्तिमत्तमं यशः कीर्तिश्च तस्यैवभवति यद्वा द्युम्नमिति धननाम धनवत्तमं यशोन्नंच तस्यभवति । अपिच देवकृतं देवैःकृतं अंहः पापं कुतश्चन कस्माकपि हेतोः तं न नशत् न प्राप्नोति न मर्त्यकृतं मनुष्यैः कृतम् ॥ ६ ॥