ते घेद᳚ग्ने स्वा॒ध्यो॒३॒᳚ ये त्वा᳚ विप्र निदधि॒रे नृ॒चक्ष᳚सम् ।
विप्रा᳚सो देव सु॒क्रतु᳚म् ॥
विप्रा᳚सो देव सु॒क्रतु᳚म् ॥
पदपाठः (Word-by-word)
ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒॑आ॒ध्यः᳚ । ये । त्वा॒ । वि॒प्र॒ । नि॒॑द॒धि॒रे । नृ॒॑चक्ष᳚सम् ।
विप्रा᳚सः । दे॒व॒ । सु॒॑क्रतु᳚म् ॥
विप्रा᳚सः । दे॒व॒ । सु॒॑क्रतु᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तेघेत् तएवखलु स्वाध्यः शोभनाध्यानाभवन्ति हे विप्र मेधाविन् देवद्योतमानाग्ने ये विप्रासोविप्राः मेधाविनऋत्विजः नृचक्षसं नृणां चेष्टारं सुक्रतुं सुकर्माणं शोभनप्रज्ञं वा त्वा त्वां निदधिरे निदधति यागार्थं गार्हपत्यादिस्थानेषु आधानसंस्कारेण स्थापयन्ति तेघेदित्यन्वयः ॥ १७ ॥