स्व॒ग्नयो᳚ वो अ॒ग्निभि॒ः स्याम᳚ सूनो सहस ऊर्जां पते ।
सु॒वीर॒स्त्वम᳚स्म॒युः ॥
सु॒वीर॒स्त्वम᳚स्म॒युः ॥
पदपाठः (Word-by-word)
सु॒॑अ॒ग्नयः᳚ । वः॒ । अ॒ग्नि॑भिः᳚ । स्याम᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ ।
सु॒॑वीरः᳚ । त्वम् । अ॒स्म॒॑युः ॥
सु॒॑वीरः᳚ । त्वम् । अ॒स्म॒॑युः ॥
सायणभाष्यम् (Sayana Commentary)
हे सहसःसूनो बलस्यपुत्र अग्निर्हि बलेन मथ्यमानोजायते हे ऊर्जांपते अन्नानां हविर्लक्षणानां स्वामिन् अग्ने वः वचनव्यत्ययः तव अवयवभूतैर- ग्निभिर्गार्हपत्यादिभिर्वयं स्वग्नयः शोभनाग्निकाः स्याम भवेम । सुवीरः शोभनैः वीरैरुपेतस्त्वंच अस्मयुः अस्मान्कामयमानोभव ॥ ७ ।