श्रवणम्

8.19.2
विभू᳚तरातिं विप्र चि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्व य॒न्तुर᳚म् ।
अ॒स्य मेध᳚स्य सो॒म्यस्य᳚ सोभरे॒ प्रेम᳚ध्व॒राय॒ पूर्व्य᳚म् ॥
▶ पदपाठः (Word-by-word)
विभू᳚त॑रातिम् । वि॒प्र॒ । चि॒त्र॑शो᳚चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर᳚म् ।
अ॒स्य । मेध᳚स्य । सो॒म्यस्य᳚ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय᳚ । पूर्व्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरात्मानं संबोध्य स्तुतौ प्रेरयति । हे विप्र मेधाविन् सोभरे एतत्संज्ञऋषे अध्वराय यागाय ईमिममग्निं प्रईळिष्व प्रस्तुहि । कीदृशं विभूत- रातिं व्याप्तधनं प्रभूतदानं वा चित्रशोचिषं चायनीयतेजस्कं विचित्रदीप्तिकं वा सोम्यस्य सोमसाध्यस्य अस्य मेधस्य यज्ञस्य यंतरं नियंतारं पूर्व्यं चिरन्तनम् ॥ २ ॥