श्रवणम्

8.19.23
यदी᳚ घृ॒तेभि॒राहु᳚तो॒ वाशी᳚म॒ग्निर्भर᳚त॒ उच्चाव᳚ च ।
असु᳚र इव नि॒र्णिज᳚म् ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । घृ॒तेभिः᳚ । आ॑हु᳚तः । वाशी᳚म् । अ॒ग्निः । भर᳚ते । उत् । च॒ । अव᳚ । च॒ ।
असु᳚रः॑इव । निः॒॑निज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृतेभिर्घृतैराहुतोभिहुतोयमग्निः यदि यदा यस्मिन्काले वाशीं वाङ्ममैतत् वाचं शब्दं उज्चऊर्ध्वं च अवच अवाक्च भरते संपाकयति । यद्वा वाशीं वाशनशीलां शब्दकारिणीं ज्वालां उद्धरते उद्धरति उद्गमयत्यूर्ध्वमुखं अवच भरते अवाङ्मुखंच हरत्युपसंहरति । आसुरइव रश्मीनां क्षेप्ता सूर्योय- था निर्णिजं आत्मीयं रूपं उपरितनेषु लोकेषु प्रकाशतयोद्गमयति अधस्तनेषुच अवाङ्मुखं गमयति तद्वत् उज्वनीचभावनयाग्निस्तेजउद्गमयति तं स्तुमइति शेषः ॥ २३ ॥