यो ह॒व्यान्यैर᳚यता॒ मनु᳚र्हितो दे॒व आ॒सा सु᳚ग॒न्धिना᳚ ।
विवा᳚सते॒ वार्या᳚णि स्वध्व॒रो होता᳚ दे॒वो अम᳚र्त्यः ॥
विवा᳚सते॒ वार्या᳚णि स्वध्व॒रो होता᳚ दे॒वो अम᳚र्त्यः ॥
पदपाठः (Word-by-word)
यः । ह॒व्यानि᳚ । ऐर᳚यत । मनुः᳚॑हितः । दे॒वः । आ॒सा । सु॒॑ग॒न्धिना᳚ ।
विवा᳚सते । वार्या᳚णि । सु॒॑अ॒ध्व॒रः । होता᳚ । दे॒वः । अम᳚र्त्यः ॥
विवा᳚सते । वार्या᳚णि । सु॒॑अ॒ध्व॒रः । होता᳚ । दे॒वः । अम᳚र्त्यः ॥
सायणभाष्यम् (Sayana Commentary)
योमनुर्हितोमनुना प्रजापतिना आहितोदेवोद्योतमानोग्निः सुगंधिना शोभनगंधयुक्तेन आसा आस्येन हव्यान्यस्मदीयानि हवींषि ऎरयत देवान्प्रति प्रेरयति स्वध्वरः शोभनयज्ञः होता देवानामाह्वाता देवोदीप्यमानः अमर्त्योमरणरहितः सोग्निः वार्याणि वरणीयानि धनानि विवासते परिचरते यजमानाय प्रयच्छतीतिशेषः ॥ २४ ॥