यस्य᳚ ते अग्ने अ॒न्ये अ॒ग्नय᳚ उप॒क्षितो᳚ व॒या इ᳚व ।
विपो॒ न द्यु॒म्ना नि यु᳚वे॒ जना᳚नां॒ तव᳚ क्ष॒त्राणि᳚ व॒र्धय᳚न् ॥
विपो॒ न द्यु॒म्ना नि यु᳚वे॒ जना᳚नां॒ तव᳚ क्ष॒त्राणि᳚ व॒र्धय᳚न् ॥
पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः᳚ । उ॒प॒॑क्षितः᳚ । व॒याः॑इ᳚व ।
विपः᳚ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना᳚नाम् । तव᳚ । क्ष॒त्राणि᳚ । व॒र्धय᳚न् ॥
विपः᳚ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना᳚नाम् । तव᳚ । क्ष॒त्राणि᳚ । व॒र्धय᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने यस्य ते तव अन्ये अग्रयः वयाइव वृक्षस्य शाखाइव उपक्षितः समीपे निवसन्तोभवन्ति जनानां जनिमतां मनुष्याणां मध्ये अहं तस्य तव क्षत्राणि बलानि स्तुत्या वर्धयन् विपोन स्तोतृनामैतत् अन्ये स्तोतारइव द्युम्ना द्योतमानानि अन्नानि यशांसि वा नियुवे नितरां प्राप्नोमि त्वत्प्रसा- दाल्लभेयमित्यर्थः ॥ ३३ ॥