श्रवणम्

8.19.36
अदा᳚न्मे पौरुकु॒त्स्यः प᳚ञ्चा॒शतं᳚ त्र॒सद᳚स्युर्व॒धूना᳚म् ।
मंहि᳚ष्ठो अ॒र्यः सत्प᳚तिः ॥
▶ पदपाठः (Word-by-word)
अदा᳚त् । मे॒ । पौ॒रु॒॑कु॒त्स्यः । प॒ञ्चा॒शत᳚म् । त्र॒सद᳚स्युः । व॒धूना᳚म् ।
मंहि᳚ष्ठः । अ॒र्यः । सत्॑प᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिकेन प्रगाथेन त्रसदस्योर्दानमृषिः प्रशंसति । पौरुकुत्स्यः पुरुकुत्सपुत्रस्त्रसदस्युः मे मःह्चं वधूनां पञ्चाशतं अदात् दत्तवान् । कीदृशः मंहिष्ठो- दातृतमः अर्यः अभिगंतव्यः स्वामीवा सत्पतिः सतां श्रेष्ठानां स्तोतृणां पालयिता ॥ ३६ ॥