तव᳚ द्र॒प्सो नील᳚वान्वा॒श ऋ॒त्विय॒ इन्धा᳚नः सिष्ण॒वा द᳚दे ।
त्वं म᳚ही॒नामु॒षसा᳚मसि प्रि॒यः क्ष॒पो वस्तु᳚षु राजसि ॥
त्वं म᳚ही॒नामु॒षसा᳚मसि प्रि॒यः क्ष॒पो वस्तु᳚षु राजसि ॥
पदपाठः (Word-by-word)
तव᳚ । द्र॒प्सः । नील᳚॑वान् । वा॒शः । ऋ॒त्वियः᳚ । इन्धा᳚नः । सि॒ष्णो॒ इति᳚ । आ । द॒दे॒ ।
त्वम् । म॒ही॒नाम् । उ॒षसा᳚म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु᳚षु । रा॒ज॒सि॒ ॥
त्वम् । म॒ही॒नाम् । उ॒षसा᳚म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु᳚षु । रा॒ज॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सिष्णो सिषिः सेचनार्थः सोमेनासिच्यमानाग्ने द्रप्सोद्रवणशीलः नीलवान् शकटनीडेवस्थानात्तद्वान् वाशः कान्तः शब्दायमानोवा ऋत्वियःऋतौ वसन्तादिकालविशेषे भवः इन्धानः संदीपयन् एवंभूतः तव सोमःआददे तुभ्यं होमायाध्वर्युणा आदीयते । अपिच त्वं महीनां महतीनामुषसां प्रियो- मित्रभूतोसि उषसि हि अग्नयोहोमाय प्रज्वाल्यन्ते । तथा क्षपः क्षपायारात्रेः संबंधिषु वस्तुषु राजसि प्रकाशसे । यद्वा रात्रिसंबंधीनि वस्तूनि पदार्थ- जातानि त्वं प्रकाशयसि ॥ ३१ ॥