यमा᳚दित्यासो अद्रुहः पा॒रं नय᳚थ॒ मर्त्य᳚म् ।
म॒घोनां॒ विश्वे᳚षां सुदानवः ॥
म॒घोनां॒ विश्वे᳚षां सुदानवः ॥
पदपाठः (Word-by-word)
यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय᳚थ । मर्त्य᳚म् ।
म॒घोना᳚म् । विश्वे᳚षाम् । सु॒॑दा॒न॒वः॒ ॥
म॒घोना᳚म् । विश्वे᳚षाम् । सु॒॑दा॒न॒वः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अद्रुहः अद्रोग्धारः हे सुदानवः हे आदित्यासः अदितेः पुत्रामित्रादयः मघोनां हविष्मतां विश्वेषां सर्वेषां मध्ये यं मर्त्यं मनुष्यं यजमानं पारं नयथ आरब्धस्य कर्मणः समाप्तिं प्रापयथ सतत्फलं लभतइत्यर्थः ॥ ३४ ॥