श्रवणम्

8.19.30
प्र सो अ᳚ग्ने॒ तवो॒तिभि᳚ः सु॒वीरा᳚भिस्तिरते॒ वाज᳚भर्मभिः ।
यस्य॒ त्वं स॒ख्यमा॒वरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सः । अ॒ग्ने॒ । तव᳚ । ऊ॒ति॑भिः᳚ । सु॒॑वीरा᳚भिः । ति॒र॒ते॒ । वाज᳚भर्म॑भिः ।
यस्य᳚ । त्वम् । स॒ख्यम् । आ॒॑वरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तवोतिभीरक्षाभिः सयजमानः प्रतिरते प्रवर्धते । ऊतयोविशेष्यन्ते सुवीराभिः शोभनावीराःपुत्रादयोयासु तास्तथोक्ताःवाजभर्मभिःवाजाना- मन्नानां बलानां वा भर्म भरणं यासु तादृशीभिः हे अग्ने त्वं यस्य यजमानस्य सख्यं सखित्वं मित्रत्वं आवरः अभिवृणोषि सतिरतइत्यन्वयः ॥ ३० ॥