श्रवणम्

8.19.16
येन॒ चष्टे॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा येन॒ नास᳚त्या॒ भगः᳚ ।
व॒यं तत्ते॒ शव᳚सा गातु॒वित्त᳚मा॒ इन्द्र᳚त्वोता विधेमहि ॥
▶ पदपाठः (Word-by-word)
येन᳚ । चष्टे᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । येन᳚ । नास᳚त्या । भगः᳚ ।
व॒यम् । तत् । ते॒ । शव᳚सा । गा॒तु॒वित्॑त᳚माः । इन्द्र᳚त्वा॑ऊताः । वि॒धे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येनाग्नेयेन तेजसा वरुणोदेवः चष्टे प्रकाशयति येनच मित्रः अर्यमा च चष्टे येनच नासत्याश्विनौच चक्षाते भगोभजनीयएतत्संज्ञोदेवश्च चष्टे । शवसा बलेन गातुवित्तमाः गातोर्गातव्यस्य स्तोत्रस्य ज्ञातृतमाः । यद्वा गंतव्यस्य प्राप्तव्यस्य लब्धतमाः इन्द्रत्वोताः इन्द्रेण ईश्वरेण त्वया ऊतार- क्षिताः संतोवयं हे अग्ने ते त्वदीयं तव तेजः विधेमहि परिचरेमहि ॥ १६ ॥