न त्वा᳚ रासीया॒भिश᳚स्तये वसो॒ न पा᳚प॒त्वाय᳚ सन्त्य ।
न मे᳚ स्तो॒ताम᳚ती॒वा न दुर्हि᳚त॒ः स्याद᳚ग्ने॒ न पा॒पया᳚ ॥
न मे᳚ स्तो॒ताम᳚ती॒वा न दुर्हि᳚त॒ः स्याद᳚ग्ने॒ न पा॒पया᳚ ॥
पदपाठः (Word-by-word)
न । त्वा॒ । रा॒सी॒य॒ । अ॒भि॑श᳚स्तये । व॒सो॒ इति᳚ । न । पा॒प॒॑त्वाय᳚ । स॒न्त्य॒ ।
न । मे॒ । स्तो॒ता । अ॒म॒ति॒॑वा । न । दुः॑हि᳚तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया᳚ ॥
न । मे॒ । स्तो॒ता । अ॒म॒ति॒॑वा । न । दुः॑हि᳚तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वसो वासकाग्ने त्वा त्वां अभिशस्तये अभिशंसनाय मिथ्यापवादाय हिंसायैच न रासीय नाक्रोशयेयम् । रासृशब्दे हे सन्त्य संभजनीयाग्ने पापव- त्वाय त्वां न रासीय मे मदीयः स्तोताच अनभिमतवचनेन त्वां नाक्रोशयतु अतएव अमतीवा अमतिरशोभनाबुद्धिस्तद्वान् अपिच दुर्हितः शत्रुः हे अग्ने अस्माकं नस्यात् न भवतु अतएव पापया अशोभनया बुद्या सनबाधताम् ॥ २६ ॥