श्रवणम्

8.19.32
तमाग᳚न्म॒ सोभ᳚रयः स॒हस्र᳚मुष्कं स्वभि॒ष्टिमव᳚से ।
स॒म्राजं॒ त्रास᳚दस्यवम् ॥
▶ पदपाठः (Word-by-word)
तम् । आ । अ॒ग॒न्म॒ । सोभ᳚रयः । स॒हस्र᳚॑मुष्कम् । सु॒॑अ॒भि॒ष्टिम् । अव᳚से ।
स॒म्॑राज᳚न् । त्रास᳚दस्यवम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोभरयः ऋषयोवयं अवसे रक्षणाय तमग्निं आगन्म हविर्भिः स्तुतिभिश्च प्राप्ताअभूम । कीदृशं सहस्त्रमुष्कं मुष्णन्ति तमांस्यपहरन्तीति मुष्कानि तेजांसि बहुतेजस्कं स्वभिष्टिं शोभनाभ्येषणं सम्राजं सम्यग्राजमानं त्रासदस्यवं त्रसदस्युर्नाम राजर्षिः तस्य स्तोतव्यत्वेन संबंधिनम् ॥ ३२ ॥