यू॒यं रा᳚जान॒ः कं चि᳚च्चर्षणीसह॒ः क्षय᳚न्तं॒ मानु᳚षा{4}॒ अनु᳚ ।
व॒यं ते वो॒ वरु᳚ण॒ मित्रार्य᳚म॒न्त्स्यामेदृ॒तस्य᳚ र॒थ्य᳚ः ॥
व॒यं ते वो॒ वरु᳚ण॒ मित्रार्य᳚म॒न्त्स्यामेदृ॒तस्य᳚ र॒थ्य᳚ः ॥
पदपाठः (Word-by-word)
यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒॑स॒हः॒ । क्षय᳚न्तम् । मानु᳚षान् । अनु᳚ ।
व॒यम् । ते । वः॒ । वरु᳚ण । मित्र᳚ । अर्य᳚मन् । स्याम᳚ । इत् । ऋ॒तस्य᳚ । र॒थ्यः᳚ ॥
व॒यम् । ते । वः॒ । वरु᳚ण । मित्र᳚ । अर्य᳚मन् । स्याम᳚ । इत् । ऋ॒तस्य᳚ । र॒थ्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे राजानोराजमानाः हे चर्षणीसहः शत्रुभूतानामभिभवितारः आदित्याः यूयं मानुषाँअनु मनुष्यान्यजमानाननुलक्ष्य क्षयन्तं क्षपयन्तं कंचित्कमपि शत्रुं सर्वमपि शत्रुवर्गं अभिभवथेतिशेषः । यद्वा मनुष्येषु यजमानेषु क्षयन्तं स्तुतीनामीश्वरं कंचित्कमपिस्तोतारं मा यूयंगच्छत । हे वरुण हे मित्र हे अर्यमन् ते तादृशावयं वोयुष्माकं संबंधिनः ऋतस्य यज्ञस्य रथ्यः स्याम नेतारोभवेम ॥ ३५ ॥