भ॒द्रं मनः᳚ कृणुष्व वृत्र॒तूर्ये॒ येना᳚ स॒मत्सु᳚ सा॒सहः᳚ ।
अव᳚ स्थि॒रा त᳚नुहि॒ भूरि॒ शर्ध᳚तां व॒नेमा᳚ ते अ॒भिष्टि᳚भिः ॥
अव᳚ स्थि॒रा त᳚नुहि॒ भूरि॒ शर्ध᳚तां व॒नेमा᳚ ते अ॒भिष्टि᳚भिः ॥
पदपाठः (Word-by-word)
भ॒द्रम् । मनः᳚ । कृ॒णु॒ष्व॒ । वृ॒त्र॒॑तूर्ये᳚ । येन᳚ । स॒मत्॑सु᳚ । स॒सहः᳚ ।
अव᳚ । स्थि॒रा । त॒नु॒हि॒ । भूरि᳚ । शर्ध᳚ताम् । व॒नेम᳚ । ते॒ । अ॒भिष्टि᳚॑भिः ॥
अव᳚ । स्थि॒रा । त॒नु॒हि॒ । भूरि᳚ । शर्ध᳚ताम् । व॒नेम᳚ । ते॒ । अ॒भिष्टि᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने वृत्रतूर्ये संग्रामे भद्रं शोभनं मनः कृणष्वास्माकं कुरु । येन मनसा त्वं समत्सु संग्रामेषु सासहः भृशं शत्रूनभिभवसि अपिच शर्धतामभिभ- वतां शत्रूणां भूरि भूरीणि बहूनि स्थिरा स्थिराणि दृढान्यपि अवतनुहि अवांचि कुरु पराजितानि कुर्वित्यर्थः । वयं चाभिष्टिभिरभ्येषणसाधनैर्हवि- विर्भिः स्तोत्रैश्च तेत्वां वनेम संभजेमहि । यद्वा ते तव प्रसादात् अभिष्टिभिरभीष्टैः फलैः वनेम संगच्छेमहि ॥ २० ॥