श्रवणम्

8.19.4
ऊ॒र्जो नपा᳚तं सु॒भगं᳚ सु॒दीदि᳚तिम॒ग्निं श्रेष्ठ᳚शोचिषम् ।
स नो᳚ मि॒त्रस्य॒ वरु᳚णस्य॒ सो अ॒पामा सु॒म्नं य᳚क्षते दि॒वि ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्जः । नपा᳚तम् । सु॒॑भग᳚म् । सु॒॑दीदि᳚तिम् । अ॒ग्निम् । श्रेष्ठ᳚॑शोचिषम् ।
सः । नः॒ । मि॒त्रस्य᳚ । वरु᳚णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्जोन्नस्य नपातं नपातयितारं यद्वा नप्तारं चतुर्थम् । हविर्लक्षणेनान्नेन आपोजायन्ते अझश्चोषधिवनस्पतयः तेभ्यएषजातइति चतुर्थत्वम् । नभ्राण्नपादिति नञःप्रकृतिभावः । सुभगं शोभनधनम् सुदीदितिं सुष्ठु दीपयितारं श्रेष्ठशोचिषं प्रशस्यतमतेजस्कं अग्निं स्तौमीतिशेषः । सता- दृशोग्निः नोस्मदर्थं दिवि द्योतमाने देवयजने द्युलोकेवा मेत्रस्य देवस्य वरुणस्यच सुम्नं सुखम् आ अभिलक्ष्य यक्षते यजतु तथा सोग्निरपामब्दे- वतानां सुम्नमभियजतु ॥ ४ ॥