यजि᳚ष्ठं त्वा ववृमहे दे॒वं दे᳚व॒त्रा होता᳚र॒मम᳚र्त्यम् ।
अ॒स्य य॒ज्ञस्य᳚ सु॒क्रतु᳚म् ॥
अ॒स्य य॒ज्ञस्य᳚ सु॒क्रतु᳚म् ॥
पदपाठः (Word-by-word)
यजि᳚ष्ठम् । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । दे॒व॒॑त्रा । होता᳚रम् । अम᳚र्त्यम् ।
अ॒स्य । य॒ज्ञस्य᳚ । सु॒॑क्रतु᳚म् ॥
अ॒स्य । य॒ज्ञस्य᳚ । सु॒॑क्रतु᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने यजिष्ठं यष्टृतमं त्वा ववृमहे वृणीमहे संभजामहे । कीदृशं त्वां देवत्रा देवेषु मध्ये देवं अतिशयेन दानादिगुणयुक्तं होतारं देवानामाह्वा- तारं अमर्त्यमविनाशं अस्य यज्ञस्य यागस्य सुक्रतुं सुष्ठु कर्तारम् ॥ ३ ॥