श्रवणम्

8.19.25
यद᳚ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि᳚त्रमहो॒ अम᳚र्त्यः ।
सह᳚सः सूनवाहुत ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । मर्त्यः᳚ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒॑म॒हः॒ । अम᳚र्त्यः ।
सह᳚सः । सू॒नो॒ इति᳚ । आ॒॑हु॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसः सूनो बलस्यपुत्र आहुत घृतैरभिहुत हे मित्रमहःअनुकूलदीप्तिमन् अग्ने मर्त्योमरणधमर्माहं यद्यदि त्वंस्यां त्वदुपासनया त्वद्रूपमापन्नोभवेयम् । ये यथा यथोपासते ते तदेव भवन्तीतिश्रुतेः । तर्ह्चहं अमर्त्योमरणधर्मरहितोदेवएव भवेयमिति ॥ २५ ॥