श्रवणम्

8.19.21
ईळे᳚ गि॒रा मनु᳚र्हितं॒ यं दे॒वा दू॒तम᳚र॒तिं न्ये᳚रि॒रे ।
यजि᳚ष्ठं हव्य॒वाह᳚नम् ॥
▶ पदपाठः (Word-by-word)
ईळे᳚ । गि॒रा । मनुः᳚॑हितम् । यम् । दे॒वाः । दू॒तम् । अ॒र॒तिम् । नि॒॑ए॒रि॒रे ।
यजि᳚ष्ठम् । ह॒व्य॒॑वाह᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिरा वाचा स्तुतिरूपया मनुर्हितं मनुना प्रजापतिना यजमानेन आहितं तमग्निं ईळे स्तौमि । कीदृर्श यजिष्ठं यष्टृतमं हव्यवाहनं हविषां वोढारं अरतिं अर्यं ईश्वरं वा दूतं देवानां दूत्येवर्तमानं यमग्निं देवान्येरिरे नितरां प्रेरयन्ति ॥ २१ ॥