श्रवणम्

8.19.15
तद᳚ग्ने द्यु॒म्नमा भ᳚र॒ यत्सा॒सह॒त्सद᳚ने॒ कं चि᳚द॒त्रिण᳚म् ।
म॒न्युं जन᳚स्य दू॒ढ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह᳚त् । सद᳚ने । कम् । चि॒त् । अ॒त्रिण᳚म् ।
म॒न्युम् । जन᳚स्य । दुः॒॑ध्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तत् द्युम्नं आभरास्मभ्यमाहर यत्सदने गृहे वर्तमानं कंचित्कमपि अत्रिणमत्तारं राक्षसादिकं सासहत् अत्यर्थमभिभवेत् । तथा दूढचः दुर्धियः पापबुद्धेः शत्रुजनस्य मन्युं क्रोधं यज्व द्युम्नमभिभवेत् तदाहरेत्यन्वयः । ध्यैचेति पृषोदरादिपाठात् दुरोरेफस्य उत्वम् र्त्तरपदादेष्टुत्वंच ॥ १५ ॥