श्रवणम्

8.79.4
त्वं चि॒त्ती तव॒ दक्षै᳚र्दि॒व आ पृ᳚थि॒व्या ऋ᳚जीषिन् ।
यावी᳚र॒घस्य᳚ चि॒द्द्वेषः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । चि॒त्ती । तव᳚ । दक्षैः᳚ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।
यावीः᳚ । अ॒घस्य᳚ । चि॒त् । द्वेषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋजीषिन् तृतीयसवनगतेन ऋजीषेण तद्वन् सोम त्वं तव चित्ती चित्या प्रज्ञया दक्षैः बलैश्च दिवआ दिवश्च आ इति चार्थे पृथिव्या आ पृथिव्याश्च सकाशात् अवस्यचिदस्माकमाहन्तुरपि द्वेषः शत्रोः कृत्यां यावीः पृथक्कुरु ॥ ४ ॥