श्रवणम्

8.79.8
मा नः᳚ सोम॒ सं वी᳚विजो॒ मा वि बी᳚भिषथा राजन् ।
मा नो॒ हार्दि᳚ त्वि॒षा व᳚धीः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।
मा । नः॒ । हार्दि᳚ । त्वि॒षा । व॒धीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपीतस्त्वं नोस्मान्मासंवीविजश्चलितांगान्माकार्षीः । राजन् सोमास्मान् माविबीभिषथाः भीतान्माकृरु । नोस्माकं हार्दि हृदये त्विषा दीप्त्या मावधी: ॥ ८ ॥