अ॒यं कृ॒त्नुरगृ᳚भीतो विश्व॒जिदु॒द्भिदित्सोमः᳚ ।
ऋषि॒र्विप्र॒ः काव्ये᳚न ॥
ऋषि॒र्विप्र॒ः काव्ये᳚न ॥
पदपाठः (Word-by-word)
अ॒यम् । कृ॒त्नुः । अगृ᳚भीतः । वि॒श्व॒॑जित् । उ॒त्॑भित् । इत् । सोमः᳚ ।
ऋषिः᳚ । विप्रः᳚ । काव्ये᳚न ॥
ऋषिः᳚ । विप्रः᳚ । काव्ये᳚न ॥
सायणभाष्यम् (Sayana Commentary)
अयं सोमः कृत्नुः कर्ता सर्वस्य अगृभीतोन्यैरगृहीतः विश्वजित् सर्वस्य जेता उद्भित् फलस्योद्भेदकः अथवा विश्वजिदुद्भिदौ सोमयागौ तयो- र्निष्पादकत्वात् तद्रूपौ ऋषिर्ज्ञानवान् विप्रः मेधावी विप्रबत्पूज्यः विशेषेण पूरकोवा एवं महानुभावः सोमः काव्येन स्तोत्रेण स्तुत्यो भवती- तिशेषः ॥ १ ॥